🌞 Start Your Day with Gratitude ✨ | 🕉️ Meditation Brings Inner Peace 🙏 | 🌟 Trust the Divine Plan 💫 | 📖 Explore Spiritual Wisdom 🔱 | ❤️ Stay Positive & Blessed Always 🌸

गणपति अथर्वशीर्ष | Ganpati Atharvashirsha Lyrics, Meaning, Benefits & Importance


गणपति अथर्वशीर्ष पोस्टर जिसमें भगवान गणेश कमल के आसन पर विराजमान हैं, हाथ में मोदक, कमल और परशु लिए हुए, आशीर्वाद मुद्रा में, मंदिर शैली बैकग्राउंड, दीपक, फूलों की सजावट और दिव्य सुनहरी आभा के साथ Devotional Hub लोगो


गणपति अथर्वशीर्ष - ॐ नमस्ते गणपतये

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।
व्यशेम देवहितं यदायूः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ नमस्ते गणपतये ॥१॥

त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ॥२॥

ऋतं वच्मि । सत्यं वच्मि ॥३॥
अव त्वं माम् ।
अव वक्तारम् ।
अव श्रोतारम् ।
अव दातारम् ।
अव धातारम् ।
अवानूचानमव शिष्यम् ।

अव पुरस्तात् ।
अव दक्षिणात्तात् ।
अव पश्चात्तात् ।
अवोत्तरात्तात् ।
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥४॥

त्वं वाङ्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥५॥

सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् {परिमिता} पदानि ।
त्वं गुणत्रयातीतः ।
त्वं अवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः ।

त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवस्सुवरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः ।
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।
एतत्तव मनुस्वरूपम् ॥७॥

गकारः पूर्वरूपम् ।
अकारो मध्यरूपम् ।
अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ।
नादस्संधानम् ।
सग्ं‌हिता संधिः ॥८॥

सैषा गणेशविद्या ।
गणक ऋषिः ।
निचृद्गायत्रीच्छन्दः ।
गणपतिर्देवता ।
ॐ गं गणपतये नमः ॥९॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥१०॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥

नमो व्रातपतये ।
नमो गणपतये ।
नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वत्र सुखमेधते ।
स पञ्चमहापापात्प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति ॥१३॥

इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ।
सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।
यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥१६॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महाप्रत्यवायात् प्रमुच्यते ।
स सर्वविद् भवति स सर्वविद् भवति ।
य एवं वेद ।
इत्युपनिषत् ॥१७॥

लाभ (Benefits)

गणपति अथर्वशीर्ष का पाठ करने से जीवन में अनेक सकारात्मक परिवर्तन आते हैं 👇

  • 🧠 बुद्धि और ज्ञान में वृद्धि – पढ़ाई और निर्णय क्षमता मजबूत होती है
  • 🚧 विघ्नों का नाश – जीवन की बाधाएं दूर होती हैं
  • 💼 कार्य में सफलता – नए काम, बिज़नेस और नौकरी में शुभ फल
  • 🏡 घर में सुख-शांति – नकारात्मक ऊर्जा कम होती है
  • 🙏 गणेश जी की कृपा – समृद्धि और शुभता का आशीर्वाद मिलता है
  • 😌 मानसिक शांति – तनाव और चिंता कम होती है


पाठ करने का समय (Best Time)

  • 🌅 सुबह (ब्रह्म मुहूर्त) – सबसे श्रेष्ठ समय
  • 🪔 पूजा के समय – विशेष रूप से गणेश जी की आरती के साथ
  • 📅 चतुर्थी (विशेष दिन) – संकष्टी चतुर्थी और गणेश चतुर्थी पर विशेष फल
  • 📿 रोजाना (Daily) – नियमित पाठ करने से अधिक लाभ


FAQ (अक्सर पूछे जाने वाले प्रश्न)

1. क्या गणपति अथर्वशीर्ष रोज पढ़ सकते हैं?

👉 हाँ, रोज पढ़ना बहुत शुभ माना जाता है


2. कितनी बार पाठ करना चाहिए?

👉 1, 3 या 11 बार पाठ करना उत्तम होता है


3. क्या इसे बिना पूजा के पढ़ सकते हैं?

👉 हाँ, सच्चे मन से कभी भी पढ़ सकते हैं


4. क्या विद्यार्थियों के लिए लाभकारी है?

👉 हाँ, यह बुद्धि और एकाग्रता बढ़ाने में बहुत सहायक है


5. सबसे बड़ा लाभ क्या है?

👉 जीवन के विघ्न दूर होकर सफलता और शांति प्राप्त होती है


🔥 📚 और भी पढ़ें (Related Posts)

👉 विष्णु स्तोत्र – भगवान विष्णु की कृपा पाने के लिए शक्तिशाली स्तोत्र
👉 श्रीकृष्णाष्टकम – श्रीकृष्ण की महिमा और भक्ति से भरपूर स्तुति
👉 दामोदर अष्टक – कार्तिक मास में गाया जाने वाला विशेष कृष्ण भजन
👉 मुकुंदमाला स्तोत्रम् – मोक्ष और भक्ति प्रदान करने वाला दिव्य स्तोत्र

« PREV
NEXT »

Follow